|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.41. अध्यायः 041
Mahabharata - Sabha Parva - Chapter Topics
शिशुपालं सान्त्वयन्तं युधिष्ठिरं निवार्य भीष्णेण श्रीकृष्णमाहात्म्यकथनम् ॥ 1॥
Mahabharata - Sabha Parva - Chapter Text
वैशम्पायन उवाच।
ततो युधिष्ठिरो राजा शिशुपालमुपाद्रवत्।
उवाच चैनं मधुरं सान्त्वपूर्वमिदं वचः॥ 2-41-1(13030)
नेदं युक्तं महीपाल यादृशं वै त्वमुक्तवान्।
अधर्मश्च परो राजन्पारुष्यं च निरर्थकम्॥ 2-41-2(13031)
न हि धर्मं परं जातु नावबुध्येत पार्थिवः।
भीष्मः शान्तनवस्त्वेनं मावमंस्थास्त्वमन्यथा॥ 2-41-3(13032)
पश्य चैतान्महीपालांस्त्वत्तो वृद्धतरान्बहून्।
मृष्यन्ते चार्हणां कृष्णे तद्वत्वं क्षन्तुमर्हसि॥ 2-41-4(13033)
वेद तत्त्वेन कृष्णं हि भीष्णश्चेदिपते भृशम्।
न ह्येनं त्वं तथा यथैनं वेद कौरवः॥ 2-41-5(13034)
भीष्म उवाच। 2-41-6x(1462)
नास्मै देयो ह्यनुनयो नायमर्हति सान्त्वनम्।
लोकवृद्धतमे कृष्णे योऽर्हणां नाभिमन्यते॥ 2-41-6(13035)
क्षत्रियः क्षत्रियं जित्वा रणे रणकृतां वरः।
यो मुञ्चति वशे कृत्वा गुरुर्भवति तस्य सः॥ 2-41-7(13036)
अस्यां हि समितौ राज्ञामेकमप्यजितं युधि।
न पश्यामि महीपालं सात्वतीपुत्रतेजसा॥ 2-41-8(13037)
न हि केवलमस्माकमयमर्च्यतमोऽच्युतः।
त्रयाणामपि लोकानामर्चनीयो महाभुजः॥ 2-41-9(13038)
कृष्णेन हि जिता युद्धे बहवः क्षत्रियर्षभाः।
जगत्सर्वं च वार्ष्णेये निखिलेन प्रतिष्ठितम्॥ 2-41-10(13039)
तस्मात्सत्स्वपि वृद्धेषु कृष्णमर्चाम नेतरान्।
एवं वक्तुं न चार्हस्त्वं मा तेऽभूद्बुद्धिरीदृशी॥ 2-41-11(13040)
ज्ञानवृद्धा मया राजन्बहवः पर्युपासिताः।
`यस्य राजन्प्रभावज्ञाः पुरा सर्वे च रक्षिताः'।
तेषां कथयतां शौरेरहं गुणवतो गुणान्॥ 2-41-12(13041)
समागतानामश्रौषं बहून्बहुमतान्सताम्।
कर्माण्यपि च यान्यस्य जन्मप्रभृति धीमतः॥ 2-41-13(13042)
बहृशः कथ्यमानानि नरैर्भूयः श्रुतानि मे।
न केवलं वयं कामाच्चेदिगज जनार्दनम्॥ 2-41-14(13043)
न सम्बन्धं पुरस्कृत्य कृतार्थं वा कथञ्चन।
अर्चामहेऽर्चितं सद्भिर्भुवि भूतसुखावहम्॥ 2-41-15(13044)
यशः शौर्यं जयं चास्य विज्ञायार्चां प्रयुञ्ज्महे
न च कश्चिदिहास्माभिः सुवालोप्यपरीक्षितः॥ 2-41-16(13045)
गुणैर्वृद्धानतिक्रम्य हरिरर्च्यतमो मतः।
ज्ञानवृद्धो द्विजातीनां क्षत्रियाणां बलाधिकः॥ 2-41-17(13046)
वैश्यानां धान्यधनवाञ्शूद्राणामेव जन्मतः।
पूज्यतायां च गोविन्दे हेतू द्वावपि संस्थितौ॥ 2-41-18(13047)
वेदवेदाङ्गविज्ञानं बलं चाभ्यधिकं तथा।
नृणां लोके हि कोऽन्योस्ति विशिष्टः केशवादृते॥ 2-41-19(13048)
दानं दाक्ष्यं श्रुतं शौर्यं ह्रीः कीर्तिर्बुद्धिरुत्तमा।
संनतिः श्रीर्धृतिस्तुष्टिः पुष्टिश्च नियताऽच्युते॥ 2-41-20(13049)
तमिमं लोकसम्पन्नमाचार्यं पितरं गुरुम्।
अर्घ्यमर्चितमर्चामः सर्वे सङ्क्षन्तुमर्हथ॥ 2-41-21(13050)
ऋत्विग्गुरुर्विवाह्यश्च स्नातको नृपतिः प्रियः।
सर्वमेतद्धृषीकेशस्तस्मादभ्यर्चितोऽच्युतः॥ 2-41-22(13051)
कृष्ण एव हि लोकानामुत्पत्तिरपि चाप्ययः।
कृष्णस्य हि कृते विश्वमिदं भूतं चराचरम्॥ 2-41-23(13052)
एष प्रकृतिरव्यक्ता कर्ता चैव सनातनः।
परश्च सर्वभूतेभ्यस्तस्मात्पूज्यतमोऽच्युतः॥ 2-41-24(13053)
बुद्धिर्मनो महद्वायुस्तेजोऽभः खं मही च या।
चतुर्विधं च यद्भूतं सर्वं कृष्णे प्रतिष्ठितम्॥ 2-41-25(13054)
आदित्यश्चन्द्रमाश्चैव नक्षत्राणि ग्रहाश्च ये।
दिशश्च विदिशश्चैव सर्वं कृष्णे प्रतिष्ठितम्॥ 2-41-26(13055)
` एष रुद्रश्च सर्वात्मा ब्रह्मा चैव सनातनः।
अक्षरं क्षररूपेण मानुषत्वमुपागतः'॥ 2-41-27(13056)
अग्निहोत्रमुखा वेदा गायत्री च्छन्दसां मुखम्।
राजा मुखं मनुष्याणां नदीनां सागरो मुखम्॥ 2-41-28(13057)
नक्षत्राणां मुखं चन्द्र आदित्यस्तेजसां मुखम्।
पर्वतानां मुखं मेरुर्गरुडः पततां मुखम्॥ 2-41-29(13058)
ऊर्ध्वं तिर्यगधश्चैव यावती जगतो गतिः।
सदेवकेषु लोकेषु भगवान्केशवो मुखम्॥ 2-41-30(13059)
अयं तु पुरुषो बालः शिशुपालो न बुध्यते।
सर्वत्र सर्वदा कृष्णं तस्मादेवं प्रभाषते॥ 2-41-31(13060)
यो हि धर्मं विचिनुयादुत्कृष्टं मतिमान्नरः।
स वै पश्येद्यथा धर्मं न तथा चेदिराडयम्॥ 2-41-32(13061)
सवृद्धबालेष्वथवा पार्थिवेषु महात्मसु।
को नार्हं मन्यते कृष्णं को वाप्येनं न पूजयेत्॥ 2-41-33(13062)
अथैनां दुष्कृतां पूजां शिशुपालो व्यवस्यति।
दुष्कृतायां यथान्यायं तथाऽयं कर्तुमर्हति॥ ॥ 2-41-34(13063)
इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि एकचत्वारिंशोऽध्यायः॥ 41 ॥
Mahabharata - Sabha Parva - Chapter Footnotes
2-41-25 चतुर्विधं जरायुजादि भौतिकम्॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|